श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥६- ३५॥ Recitation, breakdown, reordering, translation, and commentary.
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् Recitation, breakdown, reordering, translation, and commentary.
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३- ३३॥ Recitation, breakdown, reordering, and translation.
अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥६- ३३॥ Recitation, breakdown, reordering, translation, and commentary.
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥६- ३२॥ Recitation, breakdown, reordering, translation, and commentary.
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥६- ३१॥ Recitation, breakdown, reordering, translation, and commentary.
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥६- ३०॥ Recitation, breakdown, reordering, translation, and commentary.
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥६- २९॥ Recitation, breakdown, reordering, translation, and commentary.
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥६- २८॥ Recitation, breakdown, reordering and translation.
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥६- २७॥ Recitation, breakdown, reordering, translation, and commentary.
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥६- २६॥ Recitation, breakdown, reordering, translation, and commentary.
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥६- २५॥ Recitation, breakdown, reordering, translation, and commentary.
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६- २४॥ Recitation, breakdown, reordering, translation, and commentary.
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥६- २३॥ Recitation, breakdown, reordering, translation, and commentary.
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६- २२॥ Recitation, breakdown, reordering, translation, and commentary.
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥६- २१॥ Recitation, breakdown, reordering, translation, and commentary. Covey's quote attributed to Viktor Frankl is described here: https://www.viktorfrankl.org/quote_stimulus.html
यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥६- २०॥ Recitation, breakdown, reordering, translation, and commentary.
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥६- १९॥ Recitation, breakdown, reordering, translation, and commentary.
यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥६- १८॥ Recitation, breakdown, reordering, translation, and commentary. For more information about Eknath Easwaran, visit https://www.bmcm.org/. For more information about Swami Sarvapriyananda, visit https://www.vedantany.org/.
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६- १७॥ Recitation, breakdown, reordering, translation, and commentary.